Attempt now to get your rank among 594 students!
Question 1
Question 2
Question 3
Question 4
Question 5
Question 6
Question 7
Question 8
Question 9
Question 10
Question 11
Question 12
Question 13
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते । कारणं किम् ? स्पष्टमेव यत् प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते । अपितु अन्यभाषया । 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः । छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति । कुत्र तदा संस्कृतशिक्षणम् ? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न । महान् चिन्तायाः विषयः एषः । 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम् ।
Question 14
पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् | तस्साश्चैका दुहिता विनम्रा मनोहरा चासीत् | एकदा माता स्थाल्यां तण्डूलान्निक्षिप्य पुत्रीमादिदेश - सूर्यातपे तण्डूलान् खगेभ्यो रक्ष | किञ्चत्कालादनन्तरम् एको विचित्र: काक: समुड्डीय तामुपाजगाम |
नैतादृश: सवर्णपक्षो रजतचञ्चु: स्वर्णकाकस्तया पूर्वं दृष्ट: | तं तण्डूलान् स्वादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा | तं निवारयन्ती सा प्रार्थयत् - तण्डूलान् मा भक्षय | मदीया माका अतीव निर्धना वर्तते | स्वर्णपक्ष: काक: प्रोवाच, मा शुच: | सूर्योदयात्प्राग् ग्रामाद्वहि: पिप्पलवृक्षमनु त्वया गन्तव्यम् | अहं तुभ्यं तण्डूलमूल्यं दास्यामि | प्रहर्षिता बालिका निद्रामपि न लेभे |
सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता | वृक्षस्योपरि विलोक्य सा चाश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमय: प्रसादो वर्तते | यदा काक: शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं अहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयं रजतमयमुत ताम्रमयं वा? कन्या प्रावेचत् अहं निर्धनमातुर्दुहिताSस्मि | ताम्रसोपानेनैव आगमिष्यामि | परं स्वर्णसोपानेन सा स्वर्णभवनमाससाद |
चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता | श्रान्तां तां विलोकित काक: प्राह - पूर्वं लघुप्रातराश: क्रियताम् - वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्यामुत ताम्रस्थाल्याम्? बालिका व्याजहार - ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि | तदा सा कन्या चाश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम् | नैतादृक् स्वादु भोजनमद्यावधि बालिका खादितवती | काको ब्रूते - बालिके! अहमिच्छामि यत्त्वं सर्वदा चात्रैव तिष्ठ परं तव माता वर्तते चैकाकिनी | त्वं शीघ्रमेव स्वगृहं गच्छ | इत्युक्तवा काक: कक्षाभ्यन्तरात्तिस्रो मन्जूषा निस्सार्य तां प्रत्यवदत् - बालिके! यथेच्छं गृहाण मञ्जूषामेकाम् | लघुतमां मञ्जूषां प्रगृह्य बालिकया कथितमियदेव मदीयतण्डूलानां मूल्यम् |
गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महर्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दनाद्धनिका च सञ्जाता
Question 15
- 594 attempts
- 1 upvote
- 8 comments
Tags :
CTET & State TET Exams